वसुदेवसुतं देवं कंसचाणूरमर्दनम्,
देवकीपरमानन्दं कृष्णं वंदे जगद्गुरुम् ॥१॥
आतसीपुष्पसंकाशम् हारनूपुरशोभितम्,
आतसीपुष्पसंकाशम् हारनूपुरशोभितम्,
रत्नकण्कणकेयूरं कृष्णं वंदे जगद्गुरुम् ॥२॥
कुटिलालकसंयुक्तं पूर्णचंद्रनिभाननम्,
कुटिलालकसंयुक्तं पूर्णचंद्रनिभाननम्,
विलसत्कुण्डलधरं कृष्णं वंदे जगद्गुरुम् ॥३॥
मंदारगन्धसंयुक्तं चारुहासं चतुर्भुजम्,
मंदारगन्धसंयुक्तं चारुहासं चतुर्भुजम्,
बर्हिपिञ्छावचूडाङ्गं कृष्णं वंदे जगद्गुरुम् ॥४॥
उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्,
उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्,
यादवानां शिरोरत्नं कृष्णं वंदे जगद्गुरुम् ॥५॥
रुक्मिणीकेळिसंयुक्तं पीतांबरसुशोभितम्,
रुक्मिणीकेळिसंयुक्तं पीतांबरसुशोभितम्,
अवाप्ततुलसीगन्धं कृष्णं वंदे जगद्गुरुम् ॥६॥
गोपिकानां कुचद्वन्द्व कुंकुमाङ्कितवक्षसम्,
गोपिकानां कुचद्वन्द्व कुंकुमाङ्कितवक्षसम्,
श्री निकेतं महेष्वासं कृष्णं वंदे जगद्गुरुम् ॥७॥
श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम्,
श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम्,
शङ्खचक्रधरं देवं कृष्णं वंदे जगद्गुरुम् ॥८॥
कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत्,
कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत्,
कोटिजन्मकृतं पापं स्मरणेन विनष्यति ॥९॥
No comments:
Post a Comment